Skip to content
Artwork for बालमोदिनी
Kids & FamilyStories for KidsReligion & SpiritualityHinduism

बालमोदिनी

सम्भाषणसन्देशः

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.

Play
  • 91 episodes
  • daily
  • Avg 3 min
  • Sanskrit
Counted on this page — what you have heard stays on this device, so it is not something the list can be paged by.
  • #701
    October 3 · 2 min

    सः पापीयान्

    केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति सः ? बौद्धभिक्षुद्वयस्य एषा कथा अस्य प्रश्नस्य उत्तरं ददाति। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Some people quickly forget painful experiences, while others carry them in their hearts for years, holding on to anger, hatred, and hurt. So who is truly at fault—the one who causes the pain, or the one who keeps carrying it? This story of two Buddhist monks offers a thought-provoking answer.

  • #700
    October 2 · 5 min

    यात्राफलम्

    आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं कृतवान् । भीमस्य तु धनस्य चिन्ता नासीत् । तयोः यात्रा कथं प्रचलति, किं किं जायते, यात्रा सफला भवति वा न वा इत्येव अस्याः कथायाः कथावस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Rama and Bhima were two close friends who earned their living through farming. One day, they decided to go on a pilgrimage to Kashi. Rama collected money for the journey with the help of his family and relatives, while Bhima did not worry about money at all. This story tells how their journey unfolded, the challenges they faced, and whether their pilgrimage was successful.

  • #699
    October 1 · 3 min

    रजकोषः प्रजोपयोगाय

    कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः स्वपरिचयम् उक्त्वा स्वामिनं राजभवनं नीतवान् । सत्कारानन्तरं स्ववैभवं दर्शयितुम् अभिलषितवान् । यदा सः कोषागारं दर्शितवान् तदा 'अनेन कोषागारेण किं प्रयोजनम्?' इति अपृच्छत् स्वामी । 'यत् सम्पादितं तत् प्रजानां प्रयोजनाय भवेत् । विद्यालयानाम् आरम्भं करोतु' इति अवदत् स्वामी । महाराजः रत्नभाण्डागारं विक्रीय विश्वविद्यालयं संस्थापितवान् । अनेकाः पाठशालाः अपि उद्घाटिताः तेन । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Swami Satchidananda gave a discourse in Kashi, where King Natwar Singh attended in disguise. Impressed, the king invited the Swami to his palace and proudly showed him the royal treasury. The Swami advised him to use the wealth for the welfare of the people by building schools. Inspired, the king sold his treasures, founded a university, and opened many schools.

  • #698
    September 30 · 3 min

    कस्य कृते कस्य त्याग‌?

    कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः पुरुषाः एव सर्वाधिकम् आदरणीयाः भवन्ति' इति महाराजः अवदत् । किन्तु साधुः अवदत् 'भवान् एव महात्यागी' इति । तदनन्तरं या चर्चा प्राचलत् तया चर्चया महाराजस्य ज्ञानोदयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A king once visited a saint who had renounced all worldly attachments. Seeing the king, the saint was surprised. The king praised him, saying, "You are a true renunciant. Such people are the most respected in society." But the saint replied, "No, Your Majesty, you are the greater renunciant." The conversation that followed opened the king's eyes and gave him a new understanding of true renunciation.

  • #697
    September 29 · 5 min

    चतुरः शृगालः

    कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं मारितवन्तः । किन्तु हरिणस्य समग्रमपि शरीरं स्वयम् एव खादनीयम् इति विचिन्त्य शृगालः एकम् उपायं करोति । चतुरः शृगालः स्वबुद्ध्या सर्वान् निवार्य सर्वमपि हरिणमांसं खादति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A jackal, a tiger, a mouse, a wolf, and a mongoose lived together as friends in a forest. One day, they spotted a healthy deer. Following the jackal's clever plan, they managed to kill it. But the jackal wanted the entire deer for himself. Using his wit, he tricked all his friends one by one and drove them away, keeping all the meat for himself.

  • #696
    September 28 · 8 min

    पितृव्यस्य बुद्धिमत्ता

    वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य मरणानन्तरं मातरं पृष्ट्वा पुनः अङ्गुलीयकानि स्वीकुर्वन्तु इति अवदत् । यदा वीरभद्रस्य मरणं जातं तदा कनिष्ठः पुत्रः यथाकथञ्चित् पेटिकातः अङ्गुलीयकम् अचोरयत् । पितुः उत्तरक्रियायाः अनन्तरं यदा अन्ये पुत्राः पेटिकाम् उद्घाटितवन्तः तदा तत्र त्रीणि एव अङ्गुलीयकानि आसन् । परस्परं कलहं कुर्वतः पुत्रान् माता पितृव्यस्य समीपं प्रेषयति न्यायं प्राप्तुम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) The merchant Veerabhadra had four sons, whom he loved dearly. One day, he collected the rings he had given them, locked them in a box, and instructed that after his death they should ask their mother for the box and divide the rings among themselves. After Veerabhadra passed away, the youngest son secretly stole one ring from the box. Later, when the other brothers opened it after their father's last rites, they found only three rings. A dispute arose among them, and their mother sent them to their uncle to seek justice.

  • #695
    September 27 · 6 min

    तत्र प्रीतिः यत्र निःस्वार्थता

    कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'भवतः पत्नीषु भवति का अधिका स्निह्यति ?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । कृष्णः अवदत् 'अश्रुजलमिश्रिता पादेन मर्दिता च मृत्तिका एव अस्याः वेदनायाः औषधम्' इति । नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य औषधम् अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा अपृच्छत् । सपदि एव राधा तद् अयच्छत् । नारदः प्रत्यागत्य प्रवृत्तं सर्वम् उक्त्वा अवदत् 'यत्र निस्स्वार्थतया आत्मसमर्पणं भवति तत्र एव स्नेहः भक्तिः प्रीतिः च भवति इति अनेन ज्ञातम्' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Sage Narada asked Lord Krishna, "Among all your wives, who loves you the most?" In response, Krishna pretended to have a severe headache and said that the only cure was soil mixed with the tears of a devotee and touched by their feet. Narada approached Rukmini, Satyabhama, and the other queens, but all refused. Finally, he went to Radha, who immediately offered it without hesitation. Returning to Krishna, Narada realized that true love and devotion are marked by complete selflessness and total surrender.

  • #694
    September 26 · 2 min

    न त्यक्तव्यः अभ्यासः

    कस्मिंश्चित् ग्रामे वर्षत्रयं वृष्टिः न भविष्यति इति ज्ञात्वा ग्रामवासिनः जीवनार्थं यत्र कुत्रापि गतवन्तः । किन्तु एकः कृषकः तत्रैव स्थित्वा स्वशुष्कक्षेत्रस्य कर्षणं करोति स्म । एकदा आकाशे सञ्चरन् एकः मेघः तं कृषकं दृष्ट्वा आश्चर्येण अपृच्छत् 'किमर्थम् अत्रैव स्थितवान् भवान् ?' इति । तदा कृषकः अवदत् 'कृषिकार्यं विस्मृतं भवति यदि अहम् अन्यत्र गच्छामि । क्षेत्रकर्षणस्य अभ्यासः एव नष्टः भवेत्' इति । तत् श्रुत्वा मेघः 'यदि अहं वर्षत्रयं न वर्षामि, अहमपि वर्षणं विस्मरामि' इत्युक्त्वा अन्यान् मेघान् आहूय वर्षणम् अकरोत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) When the people of a village learned that there would be no rain for three years, they left in search of a livelihood. But one farmer stayed back and continued ploughing his dry field. One day, a passing cloud asked him why he was still farming. The farmer replied, "If I stop, I may forget how to farm". Hearing this, the cloud thought, "If I don't rain for three years, I too may forget how to rain". It then called the other clouds, and together they brought rain.

  • #693
    September 25 · 3 min

    त्यागस्य फलम्

    कश्चन शिल्पी यां यां शिलां पश्यति स्म तया शिलया सुन्दरीं मूर्तिं निर्माय विक्रीणीते स्म । कदाचित् उत्तमया शिलया विग्रहं कुर्याम् इति विचिन्त्य तां शिलां खण्डयित्वा भागद्वयम् अकरोत् । एकः भागः शिल्पिनः प्रहारं सोढुम् अशक्नुवन् दूरं गन्तुं प्रयत्नम् अकरोत् । शिल्पी निराशः भूत्वा अन्यं भागं स्वीकृत्य बहुपरिश्रमेण कार्यं कृत्वा सुन्दरं गणेशविग्रहं निर्मितवान् । सः विग्रहः देवालये प्रतिष्ठापितः अभवत् । अन्या शिला देवालये सोपानरूपेण अतिष्ठत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A sculptor could carve beautiful statues from any stone he found. One day, he discovered an excellent stone and split it into two pieces to create a masterpiece. One piece could not withstand the sculptor's chisel and was set aside. Using the other piece, the sculptor worked tirelessly and carved a beautiful idol of Lord Ganesha, which was installed in a temple. The rejected stone was later used as a temple step.

  • #692
    September 24 · 5 min

    परमेश्वरभक्तः

    कश्चन शिवभक्तः आसीत् । तेन एकः श्लोकः रचितः आसीत् । "तस्य श्लोकस्य विशेषः कः इत्युक्ते प्रतिपदं प्रथमाक्षरं परित्यज्य पठनेन विष्णुपरकः अर्थः भवति । सः शिवभक्तः सन् कथं किमर्थं च शिवविष्ण्वोः स्तोत्रम् एकेनैव श्लोकेन कृतवान् इति पृष्ठभूमिकायां वर्तते इयं कथा । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a devotee of Lord Shiva who composed a unique verse. Its special feature was that if the first letter of each word was removed, the same verse became a hymn in praise of Lord Vishnu. This story explains why, though a devotee of Shiva, he composed a single verse glorifying both Shiva and Vishnu.

  • #691
    September 23 · 2 min

    कोSहम्?

    दयानन्दसरस्वती यदा युवकः आसीत् तदा सः सद्गुरोः अन्वेषणं कुर्वन् आसीत् । तदर्थं सः ग्रामं ग्रामम् अटति स्म । कदाचित् सः मथुरानगर्यां स्वामीविरजानन्दस्य विषये बहु श्रुतवान् । विरजानन्दः जन्मना अन्धः आसीत् । परन्तु प्रजाचक्षुः सः महान् ज्ञानी इति विख्यातः आसीत् । अनया कथया ज्ञायते कथं दयानन्दसरस्वती तस्य शिष्यः जातः इति । गुरुशिष्ययोः ऐतिहासिकमेलनेन कालान्तरे विश्वमानवतायाः क्षेत्रे वेदानां नवीनमार्गः प्रतिष्ठापितः अभवत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) When Dayananda Saraswati was a young man, he travelled from village to village in search of a true Guru. During his journey, he heard about Swami Virajananda of Mathura. Though blind from birth, Virajananda was a great scholar, respected for his wisdom. This story tells how Dayananda became his disciple. Their historic meeting later paved the way for spreading the wisdom of the Vedas to the world.

  • #690
    September 22 · 3 min

    नाम्नः माहात्म्यम्

    श्रीरामस्य लङ्काभियानसमयः । नलनिलयोः मार्गदर्शने सागरे सेतुनिर्माणम् आरब्धम् । सुविशालेषु प्रस्तरखण्डेषु रामनाम विलिख्य स्थापनेन ते जले अनिमग्नाः सन्तः स्थिरतया तिष्ठन्ति स्म । तत् दृष्ट्वा श्रीरामः सागरतटे कार्यरतेभ्यः वानरेभ्यः किञ्चित् दूरं गतवान् । भूम्याः एकां शिलाम् उन्नीय तां सागरजले निक्षिप्तवान् । आश्चर्यम् ! शिला तु पूर्णतया सागरजले निमग्ना जाता । एतत् सर्वं दृष्टवान् हनूमान् एवं कथयति "प्रभो ! अस्य एषः एव अर्थः यत् भवान् यं त्यजति तस्य पतनं निश्चितमेव" इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) During Lord Rama's campaign to Lanka, Nala and Nila began building a bridge across the ocean. Huge stones inscribed with Rama's name floated steadily on the water. Seeing this, Lord Rama quietly picked up a stone and threw it into the sea. To everyone's surprise, it sank immediately. Watching this, Hanuman smiled and said, "Lord, this teaches us one truth—whoever is abandoned by You is certain to fall".

  • #689
    September 21 · 4 min

    अनन्यशरणत्वम्

    नन्दनृपतिः मगधदेशे पाटलीपुत्रे शासनं कुर्वन् आसीत् । चाणक्यः चन्द्रगुप्तस्य साहाय्येन पाटलीपुत्रं वशीकर्तुं प्रयत्नं कुर्वन् आसीत् । नन्दनृपतिः अपि चाणक्यं चन्द्रगुप्तं च निग्रहीतुं सर्वत्र सैनिकान् नियुक्तवान् आसीत् । कदाचित् अरण्यमार्गे चाणक्यचन्द्रगुप्तौ गच्छन्तौ आस्ताम् । कश्चन नन्दनृपतिसैनिकः तयोः अनुधावनं कृतवान् । तौ पादचारिणौ, सः सैनिकः अश्वारूढः । अतः चाणक्यः कञ्चन उपायम् कृत्वा आत्मानं चन्द्रगुप्तं च रक्षितवान् । सः उपायः कथायां विवृतः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) King Nanda was ruling Magadha from Pataliputra. Chanakya, with the help of Chandragupta, was trying to overthrow him. To stop them, King Nanda had deployed soldiers everywhere. One day, as Chanakya and Chandragupta were walking through a forest, one of Nanda's soldiers chased them on horseback. Though they were on foot, Chanakya used a clever trick to save them both. What was his plan? Listen to the story to find out.

  • #688
    September 20 · 2 min

    रागिणां कीदृशी गतिः

    कश्चन महान् कृपणः वणिक् आसीत् । सः आदिनम् आपणे कार्यं करोति स्म । तेन बहु धनं सम्पादितम् आसीत् । स्वीये वार्धके अशीतितमे वर्षे सः अतीव रुग्णः आसीत् । तस्य अन्तकाले सर्वे गृहजनाः तं परितः स्थितवन्तः आसन् । तान् सर्वान् दृष्ट्वा सः वृद्धः किं पृष्टवान् जानन्ति वा ? "सर्वे अत्र सन्ति चेत् आपणे कः अस्ति ?” इति । अहो ! रागिणां कीदृशी गतिः यत् ते अन्तकालेऽपि न मुञ्चति संसारे मोहम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a wealthy merchant who was extremely miserly. He worked in his shop every day and earned a great deal of money. In his old age, when he was eighty years old, he became seriously ill. As he lay on his deathbed, all his family members gathered around him. Do you know what he asked them? He said, "If everyone is here, then who is at the shop?" Such is the attachment of worldly people. Even at the moment of death, they are unable to let go of their attachment to worldly possessions.

  • #687
    September 19 · 4 min

    धूर्तः वृद्धः

    कस्मिंश्चित् ग्रामे कश्चन धूर्तः वृद्धः निवसति स्म । आजीवनं तेन तत्रत्याः ग्रामीणाः नानाप्रकारेण पीडिताः वञ्चिताः च । कदाचित् सः सन्निपातज्वरेण ग्रस्तः जातः । चिकित्सा व्यर्था जाता इत्यतः सः आसन्नमरणः जातः । तदा सः पुत्रम् आहूय किमपि कर्णे अवदत् । ततः यत् प्रवर्तते तेन ज्ञायते यत् सः वृद्धः कियान् धूर्तः अस्ति इति । सः मरणकाले अपि ग्रामीणान् कथं पीडितवान् इति कथायाः वस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In a certain village lived a cunning old man. Throughout his life, he had troubled and cheated the villagers in many ways. One day, he was struck by a severe fever. As all medical treatment failed, he realized that death was near. He then called his son and whispered something into his ear. What happened next revealed just how crafty the old man really was. The story tells how, even at the time of his death, he managed to trouble the villagers once again.

  • #686
    September 18 · 10 min

    प्रतीक्षा

    ईश्वरः मनुष्येण क्रियमाणं धर्मम् अधर्मं, न्याय्यम् अन्याय्यं च सर्वं जानाति । तदनुसारमेव तेभ्यः शुभाशुभफलानि ददाति । ईश्वरस्य मानदण्डं ज्ञातुं मनुष्याः न शक्नुवन्ति । किन्तु मनुष्यः चिन्तयति यत् ईश्वरस्य कर्माणि सर्वाणि मानवानुगुणानि भवन्ति इति । कथा इयम् उक्तानां तत्त्वानाम् उत्तमम् उदाहरणं वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) God knows every good and bad deed, every righteous and wrong action performed by people. He gives the results accordingly. Humans cannot understand God's way of judging. Yet, people often think that God acts according to human standards. This story is a wonderful example of this truth.

  • #685
    September 17 · 4 min

    आत्मघातिका प्रशंसा

    गुणाकारः नाम कश्चन शिल्पकारः यः स्वकलायाम् अतीव निपुणः आसीत् । मनुष्यस्य मूलशरीरं यथा अस्ति तादृशीमेव प्रतिमां सः निर्माति । कदाचित् गुणाकारः जौतिषिकस्य समीपं गत्वा स्वस्य जन्मपत्रिकां दर्शयित्वा आयुष्यविषयम् अपृच्छत् । तदा सूक्षमतया परिशील्य अस्मिन् शुक्रवासरे पुनश्च अग्रिमशुक्रवासरे च मृत्युयोगः अस्ति इति अवदत् जौतिषिकः । कमपि परिहारं सूचयतु इति यदा गुणाकारः अपृच्छत् तदा जौतिषिकः एकम् उपायं सूचयति । सः उपायः कः ? उपायः सफलः भवति वा ? इति ज्ञातुं सम्पूर्णां कथां शृण्वन्तु । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Gunakara was a sculptor who was highly skilled in his art. He could create statues that looked exactly like real people. One day, he went to an astrologer with his horoscope and asked about his lifespan. After carefully examining it, the astrologer said that there was a danger of death on that Friday and again on the following Friday. Gunakara then asked if there was any remedy. The astrologer suggested one. What was the remedy? Did it work? Listen to the full story to find out.

  • #684
    September 16 · 2 min

    ईश्वरः सर्वव्यापी

    तिरुपादः कश्चन महान् शिवभक्तः । अथ कदाचित् दूरस्थं किञ्चन मन्दिरम् अगच्छत् । वयोवृद्धः सः यात्राक्लेशेन मन्दिरसोपाने एव शयितवान् । प्रभाते यदा अर्चकः आगतः तं वृद्धं दृष्ट्वा कुपितः सन् अभिषेकपात्रात् जलं स्वीकृत्य तिरुपादस्य मुखे अक्षिपत् । जागरितं तिरुपादम् अर्चकः तर्जयति । 'निश्चलौ ममं पादौ तत्र स्थापयतु यत्र ईश्वरः न स्यात् । यदा निश्चलत्वम् अपगच्छेत् तदा अहम् उत्थाय गमिष्यामि' इति तुरुपादः अवदत् । यदा अर्चकः तस्य पादौ गृहीत्वा अन्यत्र स्थापितवान् तदा तत्र अकस्मात् शिवलिङ्गम् आविर्भूतम् । एतस्मात् अर्चकः ज्ञातवान् यत् एषः तिरुपादः सामान्यः न इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Tirupada was a great devotee of Lord Shiva. Once, while visiting a distant temple, the elderly devotee became tired and slept on the temple steps. The next morning, the priest became angry on seeing him there and threw water from the worship vessel onto his face to wake him up. Tirupada calmly replied, “Please place my feet where God is not present, and I will move.” When the priest lifted his feet and placed them elsewhere, a Shiva linga suddenly appeared at that spot. Realizing this miracle, the priest understood that Tirupada was no ordinary person.

  • #683
    September 15 · 3 min

    विचक्षणस्य गुरोः विलक्षणः शिष्यः

    महाप्राज्ञः प्रज्ञाचक्षुः दण्डिवरेण्यः मधुरानगर्यां निवसति स्म । कदाचित् कश्चन युवा संन्यासी तदीयं कुटीरम् आगछत् । तस्य नाम आसीत् दयानन्दः । सरस्वतादयः ग्रन्थाः अपि पठिताः आसीत् तेन । 'यदि मम अनुशासनम् इष्यते तर्हि तान् अनार्षान् ग्रन्थान् यमुनायां प्रवाह्य अत्र आगम्यताम्' इति गुरुः अवदत् । तथैव अकरोत् सः संन्यासी । सन्तुष्टः गुरुः दयानन्दस्य पाठम् आरब्धवान् । सकृत् द्विः वा श्रुतं पाठं स्मृतिपथे स्थापयति स्म सः । सः शिष्यः एव आर्यसमाजस्य संस्थापकः दयानन्दसरस्वतीमहर्षिः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) The great blind scholar Dandi Swami lived in Mathura. One day, a young monk named Dayananda Saraswati came to him. Dayananda had already studied many books. The teacher told him that if he truly wished to become his student, he should throw those non-Vedic books into the Yamuna River and then return. Dayananda obeyed. Pleased with his dedication, the teacher began teaching him. Dayananda had an excellent memory and could remember lessons after hearing them only once or twice. This devoted student later became the founder of the Arya Samaj.

  • #682
    September 14 · 4 min

    उपदेशवचनमात्रस्य पालनम्

    नामदेवमहाराजः कदाचित् तीर्थाटनं कुर्वन् राजधानीं अगच्छत् । तत्र तस्य उपदेशं श्रोतुं कश्चन चोरः अपि आगतवान् आसीत् । सः नामदेवम् उपसर्प्य 'अहम् उत्तमं जीवनं कर्तुम् इच्छामि किन्तु यदि चौर्यवृत्तिं परित्यज्येयं तर्हि जीवनं कष्टकरं भवेत्' इति । तदा नामदेवः अवदत् 'जीवनाधारभूतां चौर्यवृत्तिं मा त्यजतु । किन्तु सत्यकथनव्रतं पालयतु' इति । ततः तेन परिपालितेन सत्यव्रतकथानेन राज्ञः आस्थाने मन्त्रिपदम् अपि प्राप्नोत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, while travelling on a pilgrimage, Saint Namdev visited a capital city. A thief came to hear his teachings and said that he wanted to live a better life but could not give up stealing because it was his livelihood. Namdev advised him not to leave his profession immediately, but to always speak the truth. By faithfully following this vow of truthfulness, the thief gradually transformed his life and eventually earned the position of a minister in the king’s court.

Showing 21–40 of 91 episodes