Skip to content
Artwork for बालमोदिनी
बालमोदिनी · September 20 · 2 min

रागिणां कीदृशी गतिः

कश्चन महान् कृपणः वणिक् आसीत् । सः आदिनम् आपणे कार्यं करोति स्म । तेन बहु धनं सम्पादितम् आसीत् । स्वीये वार्धके अशीतितमे वर्षे सः अतीव रुग्णः आसीत् । तस्य अन्तकाले सर्वे गृहजनाः तं परितः स्थितवन्तः आसन् । तान् सर्वान् दृष्ट्वा सः वृद्धः किं पृष्टवान् जानन्ति वा ? "सर्वे अत्र सन्ति चेत् आपणे कः अस्ति ?” इति । अहो ! रागिणां कीदृशी गतिः यत् ते अन्तकालेऽपि न मुञ्चति संसारे मोहम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) There was a wealthy merchant who was extremely miserly. He worked in his shop every day and earned a great deal of money. In his old age, when he was eighty years old, he became seriously ill. As he lay on his deathbed, all his family members gathered around him. Do you know what he asked them? He said, "If everyone is here, then who is at the shop?" Such is the attachment of worldly people. Even at the moment of death, they are unable to let go of their attachment to worldly possessions.

0:00-2:24

transcript

No transcript — this publisher did not publish one.

show notes

कश्चन महान् कृपणः वणिक् आसीत् । सः आदिनम् आपणे कार्यं करोति स्म । तेन बहु धनं सम्पादितम् आसीत् । स्वीये वार्धके अशीतितमे वर्षे सः अतीव रुग्णः आसीत् । तस्य अन्तकाले सर्वे गृहजनाः तं परितः स्थितवन्तः आसन् । तान् सर्वान् दृष्ट्वा सः वृद्धः किं पृष्टवान् जानन्ति वा ? "सर्वे अत्र सन्ति चेत् आपणे कः अस्ति ?” इति । अहो ! रागिणां कीदृशी गतिः यत् ते अन्तकालेऽपि न मुञ्चति संसारे मोहम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

There was a wealthy merchant who was extremely miserly. He worked in his shop every day and earned a great deal of money. In his old age, when he was eighty years old, he became seriously ill. As he lay on his deathbed, all his family members gathered around him. Do you know what he asked them? He said, "If everyone is here, then who is at the shop?" Such is the attachment of worldly people. Even at the moment of death, they are unable to let go of their attachment to worldly possessions.