Skip to content
Artwork for बालमोदिनी
Kids & FamilyStories for KidsReligion & SpiritualityHinduism

बालमोदिनी

सम्भाषणसन्देशः

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते ।

Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.

Play
  • 82 episodes
  • daily
  • Avg 3 min
  • Sanskrit
Counted on this page — what you have heard stays on this device, so it is not something the list can be paged by.
  • #712
    Today · 5 min

    आत्मानन्दः

    रोहिदासनामा कश्चन चर्मकारः पादरक्षाणां निर्माणं कृत्वा ताः विक्रीय जीवनं करोति स्म । महान् हरिभक्तः सः पादरक्षानिर्माणसमयेऽपि हरिनाम जपित्वा सर्वदा आनन्देन तिष्ठति स्म । तस्य शिष्यः चिन्तयति स्म यत् 'एतेन ज्ञानिना एतादृशं क्षुद्रं कार्यं न करणीयम्' इति । अतः सः गुरोः दारिद्र्यं दूरीकर्तुम् कञ्चन निकषं ददाति यस्य स्पर्शेन अयोमयानि वस्तूनि सुवर्णमयानि भवति । किन्तु रोहिदासः तस्य उपयोगं न करोति । तस्य कारणम् अपि उत्तमतया विवृणोति शिष्याय । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Rohidas was a humble cobbler who earned his living by making and selling footwear. A devoted devotee of Lord Hari, he joyfully chanted God's name even while working. His disciple felt that such a wise saint should not live in poverty, so he offered him a magical touchstone that could turn iron into gold. But Rohidas refused to use it and beautifully explained to his disciple why true wealth lies in contentment and devotion.

  • #711
    Yesterday · 3 min

    परिणामे भयङ्करः

    कश्चन कलारसिकः काव्यप्रियः च महाराजः आसीत् । कदाचित् मगधदेशात् काव्यं श्रावयितुम् अस्य महाराजस्य आस्थानम् आगतवान् । यद्यपि सः उत्तमः कविः तथापि तस्य एकः दुरभ्यासः आसीत् यत् सः काव्यश्रावणसमये पुनःपुनः करतलयोः कण्डूयनं करोति स्म । तदपि सः तावद्वारं करोति स्म यत् काव्यश्रोतारः तेन जुगुप्साम् अनुभवेयुः । महाराजः तस्य काव्यं श्रुत्वा तं दुरभ्यासं दूरीकर्तुम् उपायमेकं करोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A king who deeply loved poetry and the arts once invited a poet from Magadha to recite his verses. Though the poet was highly talented, he had an unpleasant habit of constantly scratching his palms while reciting, making the audience uncomfortable. After appreciating his poetry, the king devised a clever way to help the poet overcome this bad habit.

  • #710
    Monday · 2 min

    केतक्याः पतनम्

    केतकी कदाचित् ब्रह्मणा सह मिलित्वा शिवस्य अन्वेषणविषये असत्यवचनं कथयति । कुपितः शिवः तां शप्तवान् यत् 'इतः परं मम पूजायां तव उपयोगः न भविष्यति' इति । अतः एव तदाप्रभृति शिवस्य पूजार्थं केतकी न उपयुज्यते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, the Ketaki flower falsely supported Brahma during the search for Lord Shiva's true form. Angered by this, Lord Shiva cursed the flower, declaring that it would never again be used in His worship. That is why the Ketaki flower is traditionally not offered to Lord Shiva.

  • #709
    Sunday · 5 min

    संयमात् एव शान्तिः

    कदाचित् वारणास्याम् आयोजितायां सभायां नानाविधाः चर्चाः शास्त्रार्थसंवादाश्च प्राचलन् 'शान्तिः कस्मात् प्राप्यते' इत्यस्मिन् विषये । सप्त दिनानि यावत् सभा प्रवृत्ता । अन्ते राजपुरोहितः सर्वेषां मतानि परिशील्य 'ज्ञानेन एव शान्तिः प्राप्यते' इति निर्णयम् असूचयत् । सर्वेऽपि सभासदः सम्मतिं सूचितवन्तः । किन्तु कश्चन युवकः उत्थाय अवदत् यत् 'शान्तिः संयमेनैव प्राप्यते' इति । सः एव युवकः आसीत् उद्दालकः। सः निर्दशनेन अपि तस्य वादं प्रतिपादयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, a seven-day debate was held in Varanasi on the question, "How can true peace be attained?" After hearing many opinions, the royal priest concluded that peace comes through knowledge, and everyone agreed. But a young man named Uddalaka stood up and argued that true peace comes only through self-control. He then proved his point with a practical demonstration.

  • #708
    Saturday · 2 min

    अक्षुण्णः अधिकारः

    महाराष्ट्रे गाडगेमहाराजनामा कश्चन महापुरुषः अनेकलक्षरूप्यकाणि अन्येभ्यः दानरूपेण स्वीकृत्य तानि दरिद्राणां कल्याणाय व्ययीकरोति स्म । जीर्णानि वस्त्राणि, एकं कम्बलम्, एकं मृत्तिकापात्रं च एतावदेव तस्य धनम् आसीत् । एकस्यापि रूप्यकस्य दुर्विनियोगः तेन न कृतः । कदाचित् सः यदा अस्वस्थः जातः तदा डा.अम्बेडकरः तं द्रष्टुम् आगतः । स्वस्य निमित्तं किमपि न स्वीकरोति इत्यतः कम्बलद्व्यम् आनीय गाडगेमहाराजाय दत्तवान् । किन्तु तदपि चोखमेळाधर्मशालायै समर्पयितुम् ऐच्छत् गाडगेमहाराजः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Gadge Maharaj of Maharashtra was a great saint who accepted donations only to use them for the welfare of the poor. He owned almost nothing—just old clothes, a blanket, and a clay pot—and never misused even a single rupee. Once, when he fell ill, Dr. B. R. Ambedkar visited him and gifted him two blankets, knowing he would accept nothing for himself. Yet, Gadge Maharaj wished to donate even those blankets to the Chokhamela Dharmashala.

  • #707
    Friday · 4 min

    गोसेवा

    अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति । कदाचित् सः एकाकी अश्वारोही सन् सन्ध्याकाले यदा अरण्यमार्गे गच्छन् आसीत् तदा दूरात् कस्याश्चित् गोः आक्रन्दनं श्रुतवान् । वर्षाकालः इत्यतः कस्मिंश्चित् गर्ते काचन गोः पतिता आसीत् । सिंहः अपि तत्र आयाति । सः स्वप्राणान् पणीकृत्य प्रातःकालपर्यन्तं गोरक्षणे एव मग्नः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) From ancient times, the cow has been revered in India, and protecting it has been considered a sacred duty. This story tells how the noble King Vikramaditya risked his own life to save a cow. One evening, while riding alone through a forest, he heard the desperate cries of a cow trapped in a deep pit. As a lion approached, the king stood guard through the entire night, protecting the helpless animal until dawn.

  • #706
    Thursday · 8 min

    अतिथिसत्कारस्य फलम्

    भारतीयसंस्कृतौ अतिथिसत्कारस्य विशिष्टं महत्त्वम् अस्ति । 'अतिथिदेवो भव' इति वचनम् अस्मान् शिक्षयति यत् अतिथिः देवता इव पूजनीयः । अतिथिसत्कारेण उत्तमं फलम् अपि लभ्यते । तत् फलं कीदृशं भवति इत्यस्य उत्तमम् उदाहरणं भवितुम् अर्हति इयं कथा । कथायाम् अस्यां कश्चन किरातः कस्यचित् बालकस्य अतिथिसत्कारकरणेन अग्रिमजन्मनि राजकुमाररूपेण जन्म प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In Indian culture, hospitality holds a special place. The saying "Atithi Devo Bhava" teaches us to treat a guest like God. Serving guests with respect brings great rewards. This story beautifully illustrates that truth—a hunter who warmly welcomed a young guest was rewarded by being reborn as a prince in his next life.

  • #705
    October 7 · 3 min

    यथा त्वं तथा अहम्

    रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा श्वशुरालयगमनसमये सः शिशुभ्यः मिष्टान्नं नयति स्म किन्तु कदाचित् सः इक्षून् नीतवान् । कुतूहलेन यदा वृद्धा जामातरम् अपृच्छत् तदा तस्य वाक्चातुर्यं दृष्ट्वा सर्वे परिवारजनाः तूष्णीम् अभवन् । तदनन्तरं वृद्धा अपि स्वस्य चातुर्यं दर्शयति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) An elderly woman lived in the village of Ratnapura with her four sons and a married daughter. Her son-in-law was cheerful and witty. Whenever he visited, he brought sweets for the children, but one day he brought sugarcane instead. Curious, the old woman questioned him. His clever reply left the entire family speechless. The old woman then displayed her own wit, making for an entertaining exchange.

  • #704
    October 6 · 3 min

    कः मूर्खः ?

    कश्चन वृद्धः नगरात् ग्रामं प्रति आगच्छन् आसीत् । सः सर्वदा चलन् एव गच्छति स्म । नगरात् ग्रामः दूरे आसीत् । यद्यपि वृद्धः मन्दमेव चलितवान् तथापि सः शीघ्रमेव श्रान्तः अभवत् । किञ्चित् दूरगमनानन्तरं सः परस्परं कलहमग्नौ द्वौ युवकौ दृष्टवान् । कलहस्य कारणम् आसीत् तयोः मध्ये कः बुद्धिमान् ? कः बलवान् ? इति । तत् श्रुत्वा सः वृद्धः तौ सान्त्वयन् अहं निर्णयं करोमि इत्युक्त्वा कञ्चित् उपायं करोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) An old man was walking from the city to his village. Though he walked steadily, the long journey soon made him tired. On the way, he came across two young men arguing over who was stronger and wiser. Hearing their dispute, the old man offered to settle it and came up with a clever plan.

  • #703
    October 5 · 5 min

    आदर्शसहोद्योगिनः अन्वेषणम्

    प्राचीनभारते नागार्जुननामकः कश्चन प्रसिद्धः आयुर्वेदशिक्षकः आसीत् । सः रसायनशास्त्रेऽपि निपुणः आसीत् । वार्धक्यकारणात् सः पूर्ववत् कार्यं कर्तुं न शक्नोति स्म । अतः सः एकस्य समर्थस्य साहाय्यकस्य नियोजनं चिन्तितवान् । यद्यपि तस्य शताधिकाः छात्राः आसन् तथापि मौखिक-व्यावहारिकयोः परीक्षयोः अनन्तरं वेणुगुप्तः शीलादित्यः चेति द्वौ एव सफलतां प्राप्तवन्तौ । तयोः अपि परिक्षायां शिलादित्यः एव जयं प्राप्नोति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) In ancient India, Nagarjuna was a renowned teacher of Ayurveda and an expert in alchemy. As old age made it difficult for him to continue his work, he decided to appoint a capable assistant. Out of more than a hundred students, only Venugupta and Shiladitya passed both the oral and practical tests. In the final test, Shiladitya emerged as the winner.

  • #702
    October 4 · 3 min

    मुकुटधारी तु मोक्तुकामोSस्ति

    कस्मिंश्चित् वने कश्चन शशः परिवारेण सह निवसति स्म । यद्यपि शशः तस्य पत्नी च बहिः गमनसमये 'बहिः नः गन्तव्यम्' इति स्व-अपत्यानि सूचयतः तथापि शिशवः वारं वारं बहिः गत्वा क्रीडन्ति स्म । कदाचित् कश्चन दयालुः गजः क्रीडतः शशकान् दृष्ट्वा चिन्ताक्रान्तः भूत्वा 'भवतां मातापितरौ कुत्र?’ इति पृच्छति पितृभ्यां सूचनार्थम् । किन्तु प्रत्यागतौ मातापितरौ प्रवृत्तं सर्वं विदित्वा 'सः दुष्टगजः स्यात्' इति मत्वा कुपितौ जातौ । तं दण्डयितुम् अपि उद्युक्तौ । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A rabbit lived in a forest with his family. Although he and his wife repeatedly told their young ones not to wander outside, the little rabbits often went out to play. One day, a kind elephant saw them alone and asked where their parents were so he could inform them. But when the parents returned and heard what had happened, they misunderstood the elephant's intentions, assumed he was dangerous, and even decided to punish him.

  • #701
    October 3 · 2 min

    सः पापीयान्

    केचन जनाः दुःखदघटनाः शीघ्रमेव विस्मरन्ति । अन्ये तु ताः घटनाः चिरकालं यावत् स्वमनसि वहन्ति । ते क्रोधं द्वेषम् अपमानं दुःखं च न त्यजन्ति । तर्हि पापी कः ? यः दुःखं ददाति सः अथवा यः तदेव दुःखं चिरकालं यावत् स्वमनसि धारयति सः ? बौद्धभिक्षुद्वयस्य एषा कथा अस्य प्रश्नस्य उत्तरं ददाति। (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Some people quickly forget painful experiences, while others carry them in their hearts for years, holding on to anger, hatred, and hurt. So who is truly at fault—the one who causes the pain, or the one who keeps carrying it? This story of two Buddhist monks offers a thought-provoking answer.

  • #700
    October 2 · 5 min

    यात्राफलम्

    आनन्दपुरे रामः भीमः च द्वौ स्नेहितौ आस्ताम् । द्वौ अपि परिश्रमेण कृषिं कुरुतः । कदाचित् काशीयात्रां कर्तुं तौ द्वौ निश्चितवन्तौ । रामः गृहजनानां बन्धूनां च साहाय्येन धनसङ्ग्रहणं कृतवान् । भीमस्य तु धनस्य चिन्ता नासीत् । तयोः यात्रा कथं प्रचलति, किं किं जायते, यात्रा सफला भवति वा न वा इत्येव अस्याः कथायाः कथावस्तु वर्तते । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Rama and Bhima were two close friends who earned their living through farming. One day, they decided to go on a pilgrimage to Kashi. Rama collected money for the journey with the help of his family and relatives, while Bhima did not worry about money at all. This story tells how their journey unfolded, the challenges they faced, and whether their pilgrimage was successful.

  • #699
    October 1 · 3 min

    रजकोषः प्रजोपयोगाय

    कदाचित् काशीक्षेत्रम् आगतवतः स्वामिनः सच्चिदानन्दस्य प्रवचनं योगानन्दमहाराजस्य आश्रमे जातम् । काशीनरेशः नटवरसिंहः सामान्यवेषं धृत्वा आश्रमं गतवान् । प्रवचनान्तरं महाराजः स्वपरिचयम् उक्त्वा स्वामिनं राजभवनं नीतवान् । सत्कारानन्तरं स्ववैभवं दर्शयितुम् अभिलषितवान् । यदा सः कोषागारं दर्शितवान् तदा 'अनेन कोषागारेण किं प्रयोजनम्?' इति अपृच्छत् स्वामी । 'यत् सम्पादितं तत् प्रजानां प्रयोजनाय भवेत् । विद्यालयानाम् आरम्भं करोतु' इति अवदत् स्वामी । महाराजः रत्नभाण्डागारं विक्रीय विश्वविद्यालयं संस्थापितवान् । अनेकाः पाठशालाः अपि उद्घाटिताः तेन । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Swami Satchidananda gave a discourse in Kashi, where King Natwar Singh attended in disguise. Impressed, the king invited the Swami to his palace and proudly showed him the royal treasury. The Swami advised him to use the wealth for the welfare of the people by building schools. Inspired, the king sold his treasures, founded a university, and opened many schools.

  • #698
    September 30 · 3 min

    कस्य कृते कस्य त्याग‌?

    कस्यचन वीतरागस्य सर्वसङ्गपरित्यागिनः साधोः दर्शनार्थं कश्चन महाराजः गतवान् । स्वसमीपम् अगतवन्तं महाराजं दृष्ट्वा साधुः आश्चर्यान्वितः जातः । 'भवान् त्यागी अस्ति । समाजे त्यागिनः पुरुषाः एव सर्वाधिकम् आदरणीयाः भवन्ति' इति महाराजः अवदत् । किन्तु साधुः अवदत् 'भवान् एव महात्यागी' इति । तदनन्तरं या चर्चा प्राचलत् तया चर्चया महाराजस्य ज्ञानोदयः जातः । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A king once visited a saint who had renounced all worldly attachments. Seeing the king, the saint was surprised. The king praised him, saying, "You are a true renunciant. Such people are the most respected in society." But the saint replied, "No, Your Majesty, you are the greater renunciant." The conversation that followed opened the king's eyes and gave him a new understanding of true renunciation.

  • #697
    September 29 · 5 min

    चतुरः शृगालः

    कस्मिंसश्चित् वने शृगालः, व्याघ्रः, मूषकः, वृकः, नकुलः च मित्रभावेन मिलित्वा निवसन्ति स्म । कदाचित् वनमध्ये भ्रमन्तः ते एकं पुष्टं हरिणम् अपश्यन् । शृगालस्य युक्त्या तं हरिणं मारितवन्तः । किन्तु हरिणस्य समग्रमपि शरीरं स्वयम् एव खादनीयम् इति विचिन्त्य शृगालः एकम् उपायं करोति । चतुरः शृगालः स्वबुद्ध्या सर्वान् निवार्य सर्वमपि हरिणमांसं खादति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A jackal, a tiger, a mouse, a wolf, and a mongoose lived together as friends in a forest. One day, they spotted a healthy deer. Following the jackal's clever plan, they managed to kill it. But the jackal wanted the entire deer for himself. Using his wit, he tricked all his friends one by one and drove them away, keeping all the meat for himself.

  • #696
    September 28 · 8 min

    पितृव्यस्य बुद्धिमत्ता

    वणिजः वीरभद्रस्य चत्वारः पुत्राः आसन् । सः पुत्रेषु अतीव स्निह्यति स्म । कदाचित् वीरभद्रः पुत्रेभ्यः दत्तानि अङ्गुलीयकानि प्रतिस्वीकृत्य एकस्यां पेटिकायां निक्षिप्य स्वस्य मरणानन्तरं मातरं पृष्ट्वा पुनः अङ्गुलीयकानि स्वीकुर्वन्तु इति अवदत् । यदा वीरभद्रस्य मरणं जातं तदा कनिष्ठः पुत्रः यथाकथञ्चित् पेटिकातः अङ्गुलीयकम् अचोरयत् । पितुः उत्तरक्रियायाः अनन्तरं यदा अन्ये पुत्राः पेटिकाम् उद्घाटितवन्तः तदा तत्र त्रीणि एव अङ्गुलीयकानि आसन् । परस्परं कलहं कुर्वतः पुत्रान् माता पितृव्यस्य समीपं प्रेषयति न्यायं प्राप्तुम् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) The merchant Veerabhadra had four sons, whom he loved dearly. One day, he collected the rings he had given them, locked them in a box, and instructed that after his death they should ask their mother for the box and divide the rings among themselves. After Veerabhadra passed away, the youngest son secretly stole one ring from the box. Later, when the other brothers opened it after their father's last rites, they found only three rings. A dispute arose among them, and their mother sent them to their uncle to seek justice.

  • #695
    September 27 · 6 min

    तत्र प्रीतिः यत्र निःस्वार्थता

    कदाचित् नारदमहर्षिः भगवन्तं कृष्णम् अपृच्छत् 'भवतः पत्नीषु भवति का अधिका स्निह्यति ?’ इति । इदं श्रुत्वा कृष्णः शिरःशूलस्य अभिनयं कृत्वा बलवतीं वेदनां प्रकटितवान् । कृष्णः अवदत् 'अश्रुजलमिश्रिता पादेन मर्दिता च मृत्तिका एव अस्याः वेदनायाः औषधम्' इति । नारदः रुक्मिणीं, सत्यभामाम्, अन्याः राज्ञीः च उपेत्य औषधम् अयाचत । परन्तु सर्वतः अपि निराकरणरूपमेव उत्तरं प्राप्नोत् । अन्ते सः राधायाः समीपं गत्वा अपृच्छत् । सपदि एव राधा तद् अयच्छत् । नारदः प्रत्यागत्य प्रवृत्तं सर्वम् उक्त्वा अवदत् 'यत्र निस्स्वार्थतया आत्मसमर्पणं भवति तत्र एव स्नेहः भक्तिः प्रीतिः च भवति इति अनेन ज्ञातम्' इति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) Once, Sage Narada asked Lord Krishna, "Among all your wives, who loves you the most?" In response, Krishna pretended to have a severe headache and said that the only cure was soil mixed with the tears of a devotee and touched by their feet. Narada approached Rukmini, Satyabhama, and the other queens, but all refused. Finally, he went to Radha, who immediately offered it without hesitation. Returning to Krishna, Narada realized that true love and devotion are marked by complete selflessness and total surrender.

  • #694
    September 26 · 2 min

    न त्यक्तव्यः अभ्यासः

    कस्मिंश्चित् ग्रामे वर्षत्रयं वृष्टिः न भविष्यति इति ज्ञात्वा ग्रामवासिनः जीवनार्थं यत्र कुत्रापि गतवन्तः । किन्तु एकः कृषकः तत्रैव स्थित्वा स्वशुष्कक्षेत्रस्य कर्षणं करोति स्म । एकदा आकाशे सञ्चरन् एकः मेघः तं कृषकं दृष्ट्वा आश्चर्येण अपृच्छत् 'किमर्थम् अत्रैव स्थितवान् भवान् ?' इति । तदा कृषकः अवदत् 'कृषिकार्यं विस्मृतं भवति यदि अहम् अन्यत्र गच्छामि । क्षेत्रकर्षणस्य अभ्यासः एव नष्टः भवेत्' इति । तत् श्रुत्वा मेघः 'यदि अहं वर्षत्रयं न वर्षामि, अहमपि वर्षणं विस्मरामि' इत्युक्त्वा अन्यान् मेघान् आहूय वर्षणम् अकरोत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) When the people of a village learned that there would be no rain for three years, they left in search of a livelihood. But one farmer stayed back and continued ploughing his dry field. One day, a passing cloud asked him why he was still farming. The farmer replied, "If I stop, I may forget how to farm". Hearing this, the cloud thought, "If I don't rain for three years, I too may forget how to rain". It then called the other clouds, and together they brought rain.

  • #693
    September 25 · 3 min

    त्यागस्य फलम्

    कश्चन शिल्पी यां यां शिलां पश्यति स्म तया शिलया सुन्दरीं मूर्तिं निर्माय विक्रीणीते स्म । कदाचित् उत्तमया शिलया विग्रहं कुर्याम् इति विचिन्त्य तां शिलां खण्डयित्वा भागद्वयम् अकरोत् । एकः भागः शिल्पिनः प्रहारं सोढुम् अशक्नुवन् दूरं गन्तुं प्रयत्नम् अकरोत् । शिल्पी निराशः भूत्वा अन्यं भागं स्वीकृत्य बहुपरिश्रमेण कार्यं कृत्वा सुन्दरं गणेशविग्रहं निर्मितवान् । सः विग्रहः देवालये प्रतिष्ठापितः अभवत् । अन्या शिला देवालये सोपानरूपेण अतिष्ठत् । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) A sculptor could carve beautiful statues from any stone he found. One day, he discovered an excellent stone and split it into two pieces to create a masterpiece. One piece could not withstand the sculptor's chisel and was set aside. Using the other piece, the sculptor worked tirelessly and carved a beautiful idol of Lord Ganesha, which was installed in a temple. The rejected stone was later used as a temple step.

Showing 1–20 of 82 episodes