
विचित्रा अपेक्षा
वीरपुरस्य राजा जयसिंहः शान्तिप्रियः प्रजावत्सलः च आसीत् । तस्य देशः सम्पत्समृद्धः आसीत् । प्रतिवेशी राजा विजयसिंहः युद्धप्रियः । तस्य सैन्यं महत् आसीत् । कदाचित् विजयसिंहः स्वस्य सामन्तत्वम् अङ्गीकर्तुं जयसिंहाय वार्तां प्रेषयति । जयसिंहः चिन्ताक्रान्तः जातः । किन्तु तस्य मन्त्री सुबुद्धिः तं सान्त्वयन् 'अहम् उपायेन कार्यं साधयिष्यामि' इति उक्त्वा विजयसिंहस्य आस्थानं प्रति गच्छति । तत्र उपायेन विजयसिंहं पराजयते । विजयसिंहः अपि युद्धविचारं परित्यजति । (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) King Jayasimha of Virapura was peace-loving and cared deeply for his people. His kingdom was prosperous. The neighboring king, Vijayasimha, loved war and had a large army. One day, he demanded that Jayasimha accept his rule. Jayasimha became worried, but his wise minister, Subuddhi, assured him that he would solve the problem. He went to Vijayasimha's court and cleverly defeated him through strategy. As a result, Vijayasimha gave up his plans for war.


















