
transcript
show notes
मत्स्यध्वजनामकस्य कस्यचन राज्ञः भोगे विशेषासक्तिः आसीत् । कदाचित् सः सर्वालङ्कारभूषितः सन् भोगिनीनां गृहं गच्छन् आसीत् । गमनमार्गे कश्चन पुरोहितः गृहस्य पुरतः उपविश्य उच्चस्वरेण श्लोकान् वदन् आसीत् । तं श्लोकं श्रुतवतः राज्ञः मनसि विवेकः उदितः । "मोक्षप्राप्त्यर्थम् अतिश्रेष्ठः मार्गः कः?” इति ज्ञातुं राजा पण्डितान् मेलितवान् । विष्णुचित्तनामा पण्डितः जयं प्राप्तवान् । तस्य उपदेशं श्रुत्वा भगवतः विष्णोः आराधनं, ग्रन्थाध्ययनं च कुर्वन् राजा निवृत्तिमार्गेण विशेषप्रगतिं प्राप्य अन्ते मोक्षं प्राप्तवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
King Matsyadhvaja was deeply attached to worldly pleasures. One day, while on his way to a courtesan’s house, he heard a priest reciting a verse aloud. The verse awakened spiritual wisdom in him. Desiring to know the best path to liberation, he assembled learned scholars. A scholar named Vishnuchitta emerged victorious in the discussion. Following his teachings, the king devoted himself to the worship of Lord Vishnu and the study of sacred texts. Progressing steadily on the spiritual path, he ultimately attained liberation.





