
transcript
show notes
आनन्दपुरसाहिबमन्दिरे कदाचित् श्रीगुरुनानकदेवस्य प्रवचनं प्रचलति स्म । प्रवचनमध्ये गुरुनानकदेवः 'जलम् आवश्यकम्' इति उच्चारितवान् । अग्रे उपविष्टः कश्चन युवकः त्वरया उत्थाय अन्यत्र गत्वा जलपूर्णं चषकम् आनीय तस्मै दातुम् उद्युक्तः तदा युवकस्य मृदुहस्तस्य स्पर्शः जातः । मृदुतायाः कारणं ज्ञातं यत् सः युवकः धनिकस्य पुत्रः, तस्य गृहे अनेके सेवकाः सन्ति, अयं युवकः किमपि कार्यं न करोति च इति । नानकदेवः चषकम् अधः स्थापयित्वा अवदत् 'यः जनतारूपिणः जनार्दनस्य सेवां न करोति तस्य हस्तात् किमपि न स्वीकरोमि । भवतः हस्तौ अपवित्रौ' इति । एतत् श्रुत्वा युवकस्य नेत्रे उद्घाटिते । तदा आरभ्य सः श्रद्धया बहूनि सेवाकार्याणि कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
At Anandpur Sahib temple, Guru Nanak was giving a discourse. During it, he said, ‘I need water’. A young man quickly brought a cup of water. Guru Nanak noticed the softness of his hands and realized he was a rich man’s son who never worked. Placing the cup aside, Guru Nanak said: ‘I do not accept anything from hands that do not serve humanity. Your hands are impure.’ Hearing this, the youth’s eyes were opened, and from then on he devoted himself to service with faith.





