
transcript
show notes
संस्कृतभाषायाः सुप्रसिद्धः शास्त्रज्ञः, कविः अप्पय्यदीक्षितः महान् शिवभक्तः आसीत् । कदाचित् स्वस्य शिवभक्तिं परीक्षितुम् इष्टवान् । लोके प्रसिद्धम् अस्ति यत् मनुष्यः उन्मत्तावस्थायां किमपि निगूहितं न शक्नोति । सः वैद्यविद्याम् अपि जानाति स्म अतः सः द्विविधं रसायनं सज्जीकृतवान् । 'कतिचनघण्टानन्तरं द्वितीयं रसायनंं यच्छन्तु येन अहं पुनरपि स्वस्थः भविष्यामि' इति शिष्यान् अवदत् सः । उन्मत्तावस्थायाम् आगतानां वचनानां क्रमशः योजनेन भगवतः शिवस्य प्रशंसापरकाः पञ्चदश श्लोकाः निर्मिताः अभवन् । तेषां श्लोकानां समूहः एव अग्रे उन्मत्तपञ्चदशी अथवा आत्मार्पणस्तुतिः इति नाम्ना प्रसिद्धः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Appayya Dikshita, the renowned Sanskrit scholar and poet, was a great devotee of Lord Shiva. Once, he wished to test the depth of his own devotion. Knowing that a person reveals their true feelings in a state of madness, he prepared two medicines. Before taking the first, he instructed his disciples to give him the second after a few hours to restore his normal state. During his delirium, he spontaneously uttered verses praising Lord Shiva. These were later compiled into fifteen beautiful hymns, now famous as *Unmatta Panchadashi* or *Atmarpana Stuti*.





