
transcript
show notes
कदचित् मिथिलाधिपः कोशलराज्ये आक्रमणम् अकरोत् । युद्धे कोशलनृपः पराजितः जातः, पलायनम् च अकरोत् । तस्य ग्रहणार्थं सहस्रं सुवर्णमुद्राः दीयन्ते इति उद्घोषितवान् मिथिलाधिपः । कोशलनगरे सर्वे युवकाः युद्धेः स्वप्राणान् त्यक्तवन्तः आसन् । इदानीं केवलं महिलाः बालाः वृद्धाः च आसन् । प्राकृतिकप्रकोपकारणेन कृषिः अपि नष्टा । जनानां दुर्दशां ज्ञातवान् कोशलाधिपः तेषाम् आर्थिकसाहाय्यार्थं कोशलनगरं गत्वा जनैः सह मिथिलानृपस्य समीपं गत्वा स्वपरिचयं कृत्वा सहस्रं सुवर्णमुद्राः कोशलजनेभ्यः ददातु इति अवदत् । तस्य उदारतां दृष्ट्वा मिथिलाधिपः कोशलनृपाय तस्य राज्यं प्रत्यर्पितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once the king of Mithila invaded Kosala. The Kosala king was defeated and fled. The Mithila king announced a reward of a thousand gold coins for his capture. In Kosala city, all young men had already sacrificed their lives in war; only women, children, and the elderly remained. Agriculture too was ruined by natural calamity. Seeing the people’s misery, the Kosala king himself went to the city, revealed his identity before the Mithila king, and requested that the thousand gold coins be given to the people of Kosala. Moved by his generosity, the Mithila king restored his kingdom to him.





