Skip to content
Artwork for बालमोदिनी
बालमोदिनी · August 19 · 2 min

हृदये सुगन्धः

कस्यचन अधिकारिणः मुहुः स्थानान्तरस्य आदेशः आगतः | अन्यत् नगरं प्रति गमनावसरे भवन्ति कार्याणि बहूनि | कार्यालयस्य कोऽपि कर्मचारी तस्य साहाय्यार्थं न आगतः | रेल्वेस्थानकं प्रति सर्वाणि वस्तूनि तेन स्वयं नीतानि | आप्रच्छानार्थम् अपि कोऽपि कार्यालयीयः जनः न आगतः इति विषादेन मनसि एव अहसत् सः अधिकारी | तावता कश्चन सेवकः पुष्पमालाहस्तः सन् वेगेन स्थानकम् आगच्छत् | अधिकारिणः प्रीतिः उपकारः च न विस्मृतः तेन सेवकेन | अधिकारिणः हृदयं सुगन्धपूर्णं जातम् | (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”) An officer was transferred to another city. There was a lot of work to do before leaving, but no one from his office came to help him. He carried all his things to the railway station by himself. He felt sad because no colleague had come to say goodbye. Just then, a servant came running to the station with a flower garland. The servant had not forgotten the officer’s kindness and help. This made the officer very happy.

0:00-2:45

transcript

No transcript — this publisher did not publish one.

show notes

कस्यचन अधिकारिणः मुहुः स्थानान्तरस्य आदेशः आगतः | अन्यत् नगरं प्रति गमनावसरे भवन्ति कार्याणि बहूनि | कार्यालयस्य कोऽपि कर्मचारी तस्य साहाय्यार्थं न आगतः | रेल्वेस्थानकं प्रति सर्वाणि वस्तूनि तेन स्वयं नीतानि | आप्रच्छानार्थम् अपि कोऽपि कार्यालयीयः जनः न आगतः इति विषादेन मनसि एव अहसत् सः अधिकारी | तावता कश्चन सेवकः पुष्पमालाहस्तः सन् वेगेन स्थानकम् आगच्छत् | अधिकारिणः प्रीतिः उपकारः च न विस्मृतः तेन सेवकेन | अधिकारिणः हृदयं सुगन्धपूर्णं जातम् |
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

An officer was transferred to another city. There was a lot of work to do before leaving, but no one from his office came to help him. He carried all his things to the railway station by himself. He felt sad because no colleague had come to say goodbye. Just then, a servant came running to the station with a flower garland. The servant had not forgotten the officer’s kindness and help. This made the officer very happy.